|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.97. अध्यायः 097
Mahabharata - Vana Parva - Chapter Topics
इल्वलेनागस्त्याय मेषीकृतवातापिमांसपरिवेषणम् ॥ 1 ॥ इल्वलेन वातापेराह्नानेऽगस्त्येन स्वेन तस्य जीर्णीकरणोक्ति ॥ 2 ॥ भीतेनेल्वलेनागस्त्याय धनदानपूर्वकं तज्जिधांसया तदनुगमनम् ॥ 3 ॥ अगस्त्येन हुङ्कारेणेल्वलस्य भस्मीकरणपूर्वकं लोपामुद्रायै बहुधनदानेन तस्यां गुणवदेकापत्योत्पादनम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-97-0x(2025)(19932)
इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान्।
उपस्थितान्सहामात्यो विषयान्ते ह्यपूजयत् ॥ 3-97-1(19933)
तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत्तदा।
सुसंस्कृतेन कौरव्य भ्रात्रा वातापिना तदा ॥ 3-97-2(19934)
ततो राजर्षयः सर्वे विषण्णा गतचेतसः।
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् ॥ 3-97-3(19935)
अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः।
विषादो वो न कर्तव्यो ह्यहं भोक्ष्ये महासुरम् ॥ 3-97-4(19936)
धुर्यासनमथासाद्य निषसाद महानृषिः।
तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव ॥ 3-97-5(19937)
अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः।
`बह्वन्नाशापि ते मेऽस्तीत्यवदद्भक्षयन्स्वयम्' ॥ 3-97-6(19938)
भुक्तवत्यसुरोऽह्वानमकरोत्तस्य चेल्वलः।
`वातापे प्रतिबुध्यस्व दर्शयन्बलतेजसी।
तपसा दुर्जयो यावदेष त्वां नातिवर्तते ॥ 3-97-7(19939)
ततस्तस्योदरं भेत्तुं वातापिर्वेगमाहरत्।
तमबुध्यत तेजस्वी कुम्भयोनिर्महातपाः ॥ 3-97-8(19940)
स वीर्यात्तपसोग्रस्तु ननर्द भगवानृषिः।
एष जीर्णोसि वातापे मया लोकस्य शान्तये ॥ 3-97-9(19941)
इत्युक्त्वा स्वकराग्रेण उदरं समताडयत्।
त्रिरेवं प्रतिसंरब्धस्तेजसा प्रज्वलन्निव'॥ 3-97-10(19942)
ततो वायुः प्रादुरभूदधस्तस्य महात्मनः।
शब्देन महता तात गर्जन्निव यथा घनः ॥ 3-97-11(19943)
वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह।
तं प्रहस्याब्रवीद्राजन्नगस्त्यो मुनिसत्तमः।
कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोसुरः ॥ 3-97-12(19944)
इल्वलस्तु विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम्।
प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत्।
किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः ॥ 3-97-13(19945)
प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा।
ईशोस्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् ॥ 3-97-14(19946)
एते च नातिधनिनो धनाशा महती मम।
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥ 3-97-15(19947)
ततोऽवमत्य तमृषिमिल्वलो वाक्यमब्रवीत्।
दित्सितं यदि वेत्सि त्वंततो दास्यामि ते वसु ॥ 3-97-16(19948)
अगस्त्य उवाच। 3-97-17x(2026)
गवां दशसहस्राणि राज्ञामेकैकशोऽसुर।
तावदेव सुवर्णस्य दित्सितं ते महासुर ॥ 3-97-17(19949)
मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः।
मनोजवौ वाजिनौ च दित्सितं ते महासुर ॥ 3-97-18(19950)
`लोमश उवाच। 3-97-19x(2027)
उल्वलस्तु मुनिं प्राह सर्वमस्ति यथाऽऽत्थ माम्।
सर्वमेतत्प्रदास्यामि हिरण्यं गाश्च यद्धनम्।
रथं तु यदवोचो मां नैतं विद्म हिरण्मयम् ॥ 3-97-19(19951)
आगस्त्य उवाच। 3-97-20x(2028)
न मे वागनृता काचिदुक्तपूर्वा महाऽसुर।
विज्ञायतां रथः साधु व्यक्तमस्ति हिरण्मयः ॥ 3-97-20(19952)
लोमश उवाच। 3-97-21x(2029)
विज्ञायमानः स रथः कौन्तेयासीद्धिरण्मयः'।
ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु ॥ 3-97-21(19953)
विवाजी च सुवाजी च तस्मिन्युक्तौ रथे हयौ।
ऊहतुः स वसूनाशु तावगस्त्याश्रमं प्रति।
सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ॥ 3-97-22(19954)
`इल्वलस्त्वनुगम्यैनमगस्त्यं हन्तुमैच्छत।
भस्म चक्रे महातेजा हुङ्कारेण महाऽसुरम्' ॥ 3-97-23(19955)
अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा।
कृतवांश् मुनिः सर्वं लोपामुद्राचिकीर्षितम् ॥ 3-97-24(19956)
लोपामुद्रोवाच। 3-97-25x(2030)
कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम्।
उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् ॥ 3-97-25(19957)
अगस्त्य उवाच। 3-97-26x(2031)
तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने।
विचारणामपत्ये तु तव वक्ष्यामि तां शृणु ॥ 3-97-26(19958)
सहस्रं तेऽस्तु पुत्राणआं शतं वा तत्समं तव।
दश वा शततुल्याः स्युरेको वाऽपि सहस्रजित् ॥ 3-97-27(19959)
लोपामुद्रोवाच। 3-97-28x(2032)
सहस्रसंमितः पुत्र एकोप्यस्तु तपोधन।
एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः ॥ 3-97-28(19960)
स तथेति प्रतिज्ञाय तया समगमन्मुनिः।
समये समशीलिन्या श्रद्धावान्श्रद्दधानया ॥ 3-97-29(19961)
तत आधाय गर्भं तमगमद्वनमेव सः।
तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् ॥ 3-97-30(19962)
सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः।
ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत ॥ 3-97-31(19963)
साङ्गोपनिषदान्वेदाञ्जपन्नेव महातपाः।
तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः ॥ 3-97-32(19964)
स बाल एवतेजस्वी पितुस्तस्य निवेशने।
इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् ॥ 3-97-33(19965)
तथायुक्तं तु तं दृष्ट्वा मुमुदे स मुनिस्तदा।
एवं स जनयामास भारतापत्यमुत्तमम्।
लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ॥ 3-97-34(19966)
अगस्त्यस्याश्रमश्चायमत ऊर्ध्वं विशांपते।
ख्यातो भुवि महाराज तेजसा तस्य धीमतः ॥ 3-97-35(19967)
प्राह्लादिरेवं वातापिर्ब्रह्मघ्नो दुष्टचेतनः।
एवं विनाशितो राजन्नगस्त्येन महात्मना।
तस्यायमाश्रमो राजन्रमणीयैर्गुणैर्युतः ॥ 3-97-36(19968)
एषा भागीरथी पुण्या देवगन्धर्वसेविता।
वातेरिता पताकेव विराजति नभस्तले ॥ 3-97-37(19969)
प्रतार्यमाणा कूटेषु यथा निम्नेषु नित्यशः।
शिलातलेषु संत्रस्ता पन्नगेन्द्रवधूरिव ॥ 3-97-38(19970)
3-97-39(19971)
दक्षिणां वै दिशं सर्वां प्लावयन्ती च मातृवत्।
पूर्वं शंभोर्जटाभ्रष्टा समुद्रमहिषी प्रिया।
अस्यां नद्यां मुपुण्यायां यथेष्टमवगाह्यताम् ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-97-16 ईप्सितं यदिह ब्रूहि तद्धि दास्यामि ते वसु इति क. पाठः दित्सितं मया युष्मभ्यं दातुमिष्टम् ॥ 3-97-31 प्रच्यवदुदरान्निर्गतोऽभवदित्यर्थः ॥ 3-97-34 युक्तमध्ययनेध्यवाहनादौ ॥ 3-97-36 प्राह्लादिः प्रह्नादगोत्रोद्भवः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|